Go to Part 30
Bare Shlokas
तत्वबोधः
वासुदेवेन्द्रयोगीन्द्रम् नत्वा ज्ञानप्रदं गुरुम् । मुमूक्शूणाम् हितार्थाय तत्वबोधॊऽभिधीयते ॥
१. साधनचतुष्टयसम्पन्नाधिकारिणां मॊक्षसाधनभूतं तत्वविवेकप्रकारं वक्ष्यामः ।। 1 ।।
1. साधनचतुष्टयम् किम्
२. साधनचतुष्टयम् किम् ? नित्यानित्यवस्तुविवेकः । इहामुत्रार्थफलभॊगविरागः । शमादि षट्कसम्पत्तिः । मुमुक्षुत्वं चेति ।। 2 ।।
३. नित्यानित्यवस्तुविवेकः कः ? नित्यवस्त्वॆकं ब्रह्म तद्व्यतिरिक्तं सर्वमनित्यम् ।अयमेव नित्यानित्यवस्तुविवेकः ।। 3 ।।
४. विरागः कः ? इहस्वर्गभोगेषु इच्छाराहित्यम् ।। 4 ।।
५. शमादिसाधनसम्पत्तिः का ? शमोदमोउपरतिस्तितीक्षाश्र्द्धासमाधानंचेति।। 5 ।।
६. शमः कः? मनोनिग्रहः ।। 6 ।।
७. दमः कः? चक्षुरादिबाह्येन्द्रियनिग्रहः ।। 7 ।।
८. उपरमः कः? स्वधर्मानुष्टानमेव ।। 8 ।।
९. तितिक्षा का? शीतोष्णसुखदुःखादिसहिष्णुत्वम् ।।9 ।।
१०. श्रद्धा कीद्रशी? गुरुवेदान्तवाक्यादिषु विश्वासः श्रद्धा ।।10 ।।
११. समाधानं किम्? चित्तैकाग्रता ।। 11 ।।
१२. मुमुक्षुत्वम् किम् ? मोक्षो मे भूयात् इति इछ्छा ।। 12 ।।
१३. एतत् साधनचतुष्टयम् । ततस्तत्वविवेकाधिकारिणो भवन्ति ।। 13 ।।
2. तत्वविवेकः कः?
१४. तत्वविवेकः कः? । आत्मा सत्यं तदन्यत् सर्वं मिथ्येति ।। 14 ।।
१५. आत्मा कः?
स्थूलसूक्ष्मकारणशरीरात्व्यतिरिक्तः पंचकॊशातीतः सन् ।अवस्स्थात्रयसाक्षी सच्चिदानन्दस्वरूपः सन् यस्तिस्ष्ट्ति स आत्मा।। 15 ।।
3. शरीर त्रयम्
१६. स्थूलशरीरं किम्? पंचीक्रतपंचमहाभूतैः क्रतं सत्कर्मजन्यं सुखादुःखादिभॊगायतनं शरीरम्
अस्ति जायते वर्धते विपरिणमते अपक्षीयते विनश्यतीति षड्विकारवदेतत् स्थूलशरीरम् ।।16।।
१७. सूक्ष्मशरीरम् किम्?
अपंचीक्रतपंचमहाभूतैः क्रत सत्कर्मजन्यं सुखादुःखादिभॊग साधनं पंचज्ञानॆन्द्रियाणि पंचकर्मेन्द्रियाणि
पंच प्राणादयः मनश्चैकम् बुद्धिश्चैका एवं सप्तदशाकलाभिः सह यत्तिष्ठति तत्सूक्ष्मशरीरम् ।। 17 ।।
१८. पंच ज्ञानेन्द्रियाणि
श्रोत्रं त्वक् चक्षु: रसना घ्राणम् इति पंच ज्ञानेन्द्रियाणि। श्रोत्रस्य दिग्देवता । त्वचो वायुः । चक्षुषः सूर्यः । रसनायाः वरुणः । घ्राणस्य अश्विनौ । इति ज्ञानेन्द्रियदेवताः । श्रोत्रस्य विषयः शब्दग्रहणम् । त्वचो विषयः स्पर्शग्रहणम् । चक्षुशो विषयः रूपग्रहणम् । रसनाया विषयः रसग्रहणम्। घ्राणस्य विषयः गन्धग्रहणम् इति ।। 18 ।।
१९. पञ्चकर्मेन्द्रियाणि
वाक्पाणिपादपायूपस्थानीति पञ्चकर्मेन्द्रियाणि । वाचो देवता वह्निः । हस्तयॊःरिन्द्रः । पादयोर्विष्णुः । पायोंर्मुत्युः । उपस्थस्य प्रजापतिः । इति कर्मेन्द्रियदेवताः । वाचो विषयः भाषणम् । पाण्योर्विषयः वस्तुग्रहणम् । पादयोर्विषयः गमनम् । पायोर्विषयः मलत्यागः । उपस्थस्य विषय आनन्दः इति ।। 19 ।।
२०. कारण शरीरम् किम्?
अनिर्वाच्यानाद्यविद्यारुपं शरीरद्वयस्य कारणमात्रम् सत् स्वरूपाज्ञानं ।निर्विकल्पकरूपं यदस्ति तत्कारणशरीरम् ।। 20 ।।
5. अवस्थात्रयम्
२१. अवस्थात्रयम् किम् ? जाग्रत्स्वप्नसुषुप्त्यवस्थाः ।। 21 ।।
२२. जाग्रदवस्था का? श्रोत्रादिज्ञानेन्दियाणि शन्दादि विषयैश्च ज्ञायते इति या जाग्रदवस्था ।
स्थूलशरीराभिमानी आत्मा विश्व इत्य्च्यते ।। 22 ।।
२३. स्वप्नावस्था केति चेत्? जाग्रदवस्थायां यद् द्रष्टं यत् श्रुतं तज्जनितवासनया निद्रासमये यः प्रपञ्चः प्रतीयते सा स्वप्नावस्था । सूक्ष्म्शरीराभिमानी आत्मा तैजसः इति उच्यते ।।23 ।।
२४. अथ सुषुप्तावस्था का? अहं किमपि न जानामि सुखेन मया निद्राऽनुभूयत इति सुषुप्तावस्था
कारणशरीराभिमानी आत्मा प्राज्ञ इत्युच्यते ।। 24 ।।
6. पंचकोशाः
२५. पंचकोशाः के? अन्नमयः प्राणमयः मनोमयः विज्ञानमयः आनन्दमयश्चेति ।। 25 ।।
२६. अन्नमयः कः? अन्नरसेनैव भूत्वा अन्नरसेनैव व्रद्द्धिं प्राप्य अन्नरूपप्रथिव्यां
यद्विलीयते तदन्नमयः कॊशः स्थूलशरीरम् ।। 26 ।।
२७. प्राणमयः कः? प्राणाद्याः पञ्चवायवः वागीन्द्रियपञ्चकंप्राणमयः कोश: ।। 27 ।।
२८. मनॊमयः कॊषः कः? मनश्च ज्ञानेन्द्रियपञ्चकं मिलित्वा भवति स मनोमय कॊशः ।। 28 ।।
२९. विज्ञानमयः कः? बुद्धिश्च ज्ञानेन्द्रियपञ्चम्कम् मिलित्वा भवति सः विज्ञानमयः कॊशः ।। 29 ।।
३०. आनन्दमयः कः? एवमॆव कारणशरीरभूताविद्यास्थमलिनसत्वं प्रियादिव्रत्तिसहितं सत् आनन्दमयः कोशः । एतत्कॊशपंचकम् ।। 30 ।।
३१. मदीयम् शरीरं मदीयाः प्राणाः मदीयं मनश्च मदीया बिद्धिर्मदीयं अज्ञानमिति स्वेनैव ज्ञायते तद्यथा मदीयत्वॆन ज्ञातं कटककुण्डलग्रहादिकं स्वस्माद्भिन्नं तथा पञ्चकोषादिकं स्वस्माद्भिन्नं मदीयत्वेन ज्ञातमात्मा न भवति ।। 31 ।।
7. आत्म विचारः
३२. आत्मा तर्हि कः? सच्चिदानन्द स्वरूपः ।।32 ।।
३३. सत्किम्? कालत्रयेपि तिष्ट्तीति सत् ।।33 ।।
३४. चित् किम्? ज्ञानस्वरूपः ।। 34 ।।
३५. आनन्दः कः? सुखस्वरूपः ।। 35 ।।
३६. एवं सच्चिदानन्दस्वरूपं स्वात्मानं विजानीयात् ।। 36 ।।
8. जगत् उत्पत्ति प्रकारम्
३७. अथ चतुर्विंशतितत्वोत्पत्तिप्रकारं वक्ष्यामः ।। 37 ।।
३८. ब्रह्माश्रया सत्वरजस्तमोगुणात्मिका माया अस्ति ।। 38 ।।
9. पञ्चभूत अभिव्यक्तिः
३९. ततः आकाश: सम्भूतः । आकाशाद्वायुः । वायोस्तेजः। तेजस् आपः। अद्भ्यः प्रथिवी ।। 39 ।।
10. गुणत्रय विभागः
४०. एतेषां पञ्चतत्वानांमध्ये आकाशस्य सात्विकांशात् श्रोत्रेन्दियम् सम्भूतम् । वायॊः सत्विकांशाव्त्वगीन्द्रियं सम्भूतम्।अग्नेः सात्विकांशाच्चक्षुरिन्द्रियम् सम्भूतम्।जलस्य सात्विकांशाद्रसेनेन्द्रियं सम्भूतम्।प्रथिव्यां सात्विकांशात् घ्राणेन्द्रियं सम्भूतम्।। 40 ।।
४१. एतॆषां पञ्चतत्वानांसमष्टिसात्विकांशात् मनोबुध्य्हंकार-र्चित्तान्तःकरणानि सम्भूतानि।
संकल्पविकल्पात्मकं मनः।निश्चयत्मिका बुद्धिः। अहंकर्ता अहंकारः।चिन्तनकर्तु चित्तम्।
मनसोदेवता चन्द्रमाः। बुद्धेर्बम्हा ।अहंकारस्य रुद्रः ।चित्तस्य वासुदेवः।। 41 ।।
४२. एतेषां पंन्चतत्त्वानां मध्ये आकाशस्य राजसांशात् वागीन्द्रियं सम्भभूतम् । वायॊः राजसांशात् पाणीन्द्रियं सम्भभूतम् । वह्नॆः राजसांशात् पादेन्द्रियम् सम्भभूतम् । जलस्य राजसांशात् उपस्थेन्द्रियं सम्भभूतम् । प्रथिव्याः राजसांशात् गुदेन्द्रियं सम्भभूतम् । एतेषाम् समष्टि राजसांशात्पंचप्राणाः सम्भभूताः ।। 42 ।।
४३. एतेषां पञ्चतत्वानां मध्ये तामशांसात् पञ्चीक्रतपञ्चतत्वानि भवन्ति । फंचीकरणम् कथम् इति चेत् ।एतेषां पंचभूतानां तामसांशस्वरूपम् एकमेकं भूतं द्विधा विभज्य एकमेकमर्धं प्रथक् तूष्णीं व्यवस्थाप्य अपरमपरमर्धं चतुर्धा विभज्य स्वार्धमन्येषु अर्धेषु स्वभागचतुष्टयसंयॊजनं कार्यम् । तदा पंचीकरणं भवति ।।एतॆभ्यः पंचीक्रतपंचमहाभूतेभ्यः स्थूलशरीरं भवति ।। 43 ।।
11. पिण्ड ब्रह्माण्डयॊः ऐक्यम्
४४. एवं पिण्डब्रह्माण्डयॊरैक्यं संभूतम् ।। 44 ।।
४५. स्थूलशरीराभिमानि जीवनामकं स्थूलशरीराभिमानि जीवनामकं ब्रह्मप्रतिबिम्बं भवति । स एव जीवः प्रक्रत्या स्वस्मात् ईश्वरं भिन्नत्वेन जानाति । अविद्या उपाधिः सन् आत्मा जीवः इति उच्यते । मायॊपधिः सन् ईश्वरः इत्युच्यते।ऎवमुपाधिभेदात् जीवॆश्वरयॊर्भेदद्रष्टिः यावत्पर्यन्तं तिष्टतितावत्पर्यन्तंजन्ममरणदिरूपसंसारॊननिवर्तते ।तस्मात्कारणात्न वॆश्वरयॊर्भेदबुद्धिःस्वीकार्या।। 45 ।।
12. तत्वमसि विचारम्
४६. ननु साहंकारस्यकिंचिज्ञ्यस्य जीवस्य निराहंकारस्य सर्वज्ञस्य ईश्वरस्य तत्वमसीत महावाक्यात् कथमभेदबुद्धिः स्यादुभयॊः विरुद्धधर्माक्रान्तत्वात् ।। 46 ।।
४७. इति चेन्न । स्थूलसूक्ष्मशरीराभिमानी त्वम्पदवाच्यार्थः उपाधिविनिमुक्त्ं समाधिशासम्पन्नं शुद्धं चैतन्यं त्वंपदं लक्ष्यार्थः । एवं सर्वज्ञात्त्वादि विशिष्ट ईश्वरः तत्पद वाच्यार्थः। उपाधिशून्यं शुद्धचैतन्यं तत्पद लक्ष्यार्थः। एवं च जॆवॆश्वरयॊः चैतन्यरूपेणाऽभेदे बाधकाभावः।। 47 ।।
13. जीवन्मुक्तः
४८. एवं च वेदान्तवाक्यै: सद्गुरूपदेशेन च सर्वेष्वपि भूतेषु एषां ब्रह्मबुद्धिरुत्पन्ना ते जीवन्मुक्ताः इत्यर्थ: ।। 48 ।।
४९. ननु जीवन्मुक्तः कः? यथादेहॊऽहं पुरुषॊऽहं ब्राह्मणोऽह्ं शूद्रोऽहमस्मीति द्ढनिश्च्ययस्तथा नाहं ब्राह्मणः न शूद्रः न पुरुषः किन्तु असंगः सच्चिदानन्दस्वरूपः प्रकाशरूपः सर्वान्तर्य़ामी चिदाकाशरूपॊस्मीति द्रढ्निश्चयः अपरॊक्षज्ञानवान् जीवन्मुक्तः ।। 49 ।।
५०. ब्रह्मैवाहमस्मीत्यपरोक्षज्ञानेन निखिलकर्मबन्ध विनिर्मुक्त स्यात् ।। 50 ।।
14. कर्म – कर्मफलम्
५१. कर्माणि कतिविधानि सन्तीति चेत् आगामिसञ्चित प्रारभ्धभेदेन त्रिविधानि सन्ति।। 51 ।।
५२ ज्ञानॊत्पत्यनन्तरं ज्ञानिदेहक्रतं पुण्यपापरूपं कर्म यदस्ति तदगामित्यभिधीयते ।। 52 ।।
५३ संचित कर्म किम्? अनन्तकॊटिजन्मनां बीजभूतं सत् यत्कर्मजातं पूर्वार्जितं तिष्ठ्ति
तत्सञ्चित ज्ञेयम् ।। 53 ।।
५४. प्रारब्धं कर्म किमिति चेत् । इदं शरीरमुत्पाद्य इह लॊके एवं सुखदुःखादिप्रदं यत्कर्म तत्प्रारब्धं
भॊगेन नष्टं भवति प्रारब्धकर्मणां भॊगादेव क्षय इति ।। 54 ।।
५५. सञ्चितम् कर्म ब्रह्मैवाहमिति -निष्चयात्मक ज्ञानेन नश्यति ।। 55 ।।
५६ आगामि कर्म अपि ज्ञानेन नश्यति किंच आगामिकर्मणाम् नलिनीदलगतजलवत् ज्ञानिनां सम्बन्धॊ नास्ति ।। 56।।
५७. किञ्च ये ज्ञानिनं स्तुवन्ति भजन्ति अर्चयन्ति तान्प्रति ज्ञानिक्रतं आगामि पुण्यं गच्छति ।
ये ज्ञानिनं निन्दन्ति द्विषन्ति दुःखप्रदानं कुर्वन्ति तान्प्रति ज्ञानिक्रतं सर्वगामि क्रियमाणं यद्वाच्यं कर्म पापात्मकं तद्गछति। सुर्हदः पुण्यक्रत्यं दुह्रदः पापक्रत्यं ग्रह्णन्ति इति ।। 57 ।।
15. ब्रह्मानन्द फलम्
५८. तथा च आत्मवित्संसारं तीत्वा ब्रह्मानन्दमिहैव प्राप्नोति। तरति शोकं आत्मवित्’ इति श्रुतेः । तनुं त्यजतु वा काश्यां श्वपचस्य ग्रहेऽथवा । ज्ञानसम्प्राप्तिसमये मुक्तोऽसौ विगताशयः इति स्म्रतेश्च ।। 58 ।।
।। इति तत्वबोधप्रकरणम् समाप्तम् ।।
Contact Dr. Bapat at vrbapat@yahoo.co.in if you have any comments or questions.
|